६.१३.१राघवेणाभये दत्ते संनतो रावणानुजः
खात्पपातावनिं हृष्टो भक्तैरनुचरैः सह
६.१३.२स तु रामस्य धर्मात्मा निपपात विभीषणः
पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः
६.१३.३अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः
धर्मयुक्तं च युक्तं च साम्प्रतं संप्रहर्षणम्
६.१३.४अनुजो रावणस्याहं तेन चास्म्यवमानितः
भवन्तं सर्वभूतानां शरण्यं शरणं गतः
६.१३.५परित्यक्ता मया लङ्का मित्राणि च धनानि च
भवद्गतं मे राज्यं च जीवितं च सुखानि च
६.१३.६राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणे
करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम्
६.१३.७इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम्
अब्रवील्लक्ष्मणं प्रीतः समुद्राज्जलमानय
६.१३.८तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम्
राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद
६.१३.९एवमुक्तस्तु सौमित्रिरभ्यषिञ्चद्विभीषणम्
मध्ये वानरमुख्यानां राजानं रामशासनात्
६.१३.१०तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवंगमाः
प्रचुक्रुशुर्महानादान्साधु साध्विति चाब्रुवन्
६.१३.११अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम्
कथं सागरमक्षोभ्यं तराम वरुणालयम्
६.१३.१२उपायैरभिगच्छामो यथा नदनदीपतिम्
तराम तरसा सर्वे ससैन्या वरुणालयम्
६.१३.१३एवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः
समुद्रं राघवो राजा शरणं गन्तुमर्हति
६.१३.१४खानितः सगरेणायमप्रमेयो महोदधिः
कर्तुमर्हति रामस्य ज्ञातेः कार्यं महोदधिः
६.१३.१५एवं विभीषणेनोक्ते राक्षसेन विपश्चिता
प्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत
६.१३.१६स लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम्
सत्क्रियार्थं क्रियादक्षः स्मितपूर्वमुवाच ह
६.१३.१७विभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते
ब्रूहि त्वं सहसुग्रीवस्तवापि यदि रोचते
६.१३.१८सुग्रीवः पण्डितो नित्यं भवान्मन्त्रविचक्षणः
उभाभ्यां संप्रधार्यार्यं रोचते यत्तदुच्यताम्
६.१३.१९एवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौ
समुदाचार संयुक्तमिदं वचनमूचतुः
६.१३.२०किमर्थं नो नरव्याघ्र न रोचिष्यति राघव
विभीषणेन यत्तूक्तमस्मिन्काले सुखावहम्
६.१३.२१अबद्ध्वा सागरे सेतुं घोरेऽस्मिन्वरुणालये
लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः
६.१३.२२विभीषणस्य शूरस्य यथार्थं क्रियतां वचः
अलं कालात्ययं कृत्वा समुद्रोऽयं नियुज्यताम्
६.१३.२३एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः
संविवेश तदा रामो वेद्यामिव हुताशनः