३.५९

३.५९.१दृष्टाश्रमपदं शून्यं रामो दशरथात्मजः
रहितां पर्णशालां च विध्वस्तान्यासनानि च

३.५९.२अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः
उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ

३.५९.३क्व नु लक्ष्मण वैदेही कं वा देशमितो गता
केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया

३.५९.४वृष्केणावार्य यदि मां सीते हसितुमिच्छसि
अलं ते हसितेनाद्य मां भजस्व सुदुःखितम्

३.५९.५यैः सह क्रीडसे सीते विश्वस्तैर्मृगपोतकैः
एते हीनास्त्वया सौम्ये ध्यायन्त्यस्राविलेक्षणाः

३.५९.६मृतं शोकेन महता सीताहरणजेन माम्
परलोके महाराजो नूनं द्रक्ष्यति मे पिता

३.५९.७कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः
अपूरयित्वा तं कालं मत्सकाशमिहागतः

३.५९.८कामवृत्तमनार्यं मां मृषावादिनमेव च
धिक्त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता

३.५९.९विवशं शोकसंतप्तं दीनं भग्नमनोरथम्
मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम्

३.५९.१०क्व गच्छसि वरारोहे मामुत्सृज्य सुमध्यमे
त्वया विरहितश्चाहं मोक्ष्ये जीवितमात्मनः

३.५९.११इतीव विलपन्रामः सीतादर्शनलालसः
न ददर्श सुदुःखार्तो राघवो जनकात्मजाम्

३.५९.१२अनासादयमानं तं सीतां दशरथात्मजम्
लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया

३.५९.१३मा विषादं महाबाहो कुरु यत्नं मया सह
इदं च हि वनं शूर बहुकन्दरशोभितम्

३.५९.१४प्रियकाननसंचारा वनोन्मत्ता च मैथिली
सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम्

३.५९.१५सरितं वापि संप्राप्ता मीनवञ्जुरसेविताम्
जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ

३.५९.१६तस्या ह्यन्वेषणे श्रीमन्क्षिप्रमेव यतावहे
मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः

३.५९.१७एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन समाहितः
तौ वनानि गिरींश्चैव सरितश्च सरांसि च

३.५९.१८निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ
तस्य शैलस्य सानूनि गुहाश्च शिखराणि च

३.५९.१९निखिलेन विचिन्वन्तौ नैव तामभिजग्मतुः
विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत्

३.५९.२०नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभे
ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यमब्रवीत्

३.५९.२१विचरन्दण्डकारण्यं भ्रातरं दीप्ततेजसं
प्राप्स्यसि त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम्

३.५९.२२यथा विष्णुर्महाबाहुर्बलिं बद्ध्वा महीमिमाम्
एवमुक्तस्तु वीरेण लक्ष्मणेन स राघवः

३.५९.२३उवाच दीनया वाचा दुःखाभिहतचेतनः
वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः

३.५९.२४गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः
न हि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम्

३.५९.२५एवं स विलपन्रामः सीताहरणकर्शितः
दीनः शोकसमाविष्टो मुहूर्तं विह्वलोऽभवत्

३.५९.२६स विह्वलितसर्वाङ्गो गतबुद्धिर्विचेतनः
विषसादातुरो दीनो निःश्वस्याशीतमायतम्

३.५९.२७बहुशः स तु निःश्वस्य रामो राजीवलोचनः
हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः

३.५९.२८तं सान्त्वयामास ततो लक्ष्मणः प्रियबान्धवः
बहुप्रकारं धर्मज्ञः प्रश्रितः प्रश्रिताञ्जलिः

३.५९.२९अनादृत्य तु तद्वाक्यं लक्ष्मणौष्ठपुटच्युतम्
अपश्यंस्तां प्रियां सीतां प्राक्रोशत्स पुनः पुनः