३.५४.१सा तथोक्ता तु वैदेही निर्भया शोककर्षिता
तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत
३.५४.२राजा दशरथो नाम धर्मसेतुरिवाचलः
सत्यसन्धः परिज्ञातो यस्य पुत्रः स राघवः
३.५४.३रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः
दीर्घबाहुर्विशालाक्षो दैवतं स पतिर्मम
३.५४.४इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः
लक्ष्मणेन सह भ्रात्रा यस्ते प्राणां हरिष्यति
३.५४.५प्रत्यक्षं यद्यहं तस्य त्वया स्यां धर्षिता बलात्
शयिता त्वं हतः संख्ये जनस्थाने यथा खरः
३.५४.६य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः
राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा
३.५४.७तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः
शरीरं विधमिष्यन्ति गङ्गाकूलमिवोर्मयः
३.५४.८असुरैर्वा सुरैर्वा त्वं यद्यवधोऽसि रावण
उत्पाद्य सुमहद्वैरं जीवंस्तस्य न मोक्ष्यसे
३.५४.९स ते जीवितशेषस्य राघवोऽन्तकरो बली
पशोर्यूपगतस्येव जीवितं तव दुर्लभम्
३.५४.१०यदि पश्येत्स रामस्त्वां रोषदीप्तेन चक्षुषा
रक्षस्त्वमद्य निर्दग्धो गच्छेः सद्यः पराभवम्
३.५४.११यश्चन्द्रं नभसो भूमौ पातयेन्नाशयेत वा
सागरं शोषयेद्वापि स सीतां मोचयेदिह
३.५४.१२गतायुस्त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः
लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति
३.५४.१३न ते पापमिदं कर्म सुखोदर्कं भविष्यति
याहं नीता विना भावं पतिपार्श्वात्त्वया वनात्
३.५४.१४स हि दैवतसंयुक्तो मम भर्ता महाद्युतिः
निर्भयो वीर्यमाश्रित्य शून्ये वसति दण्डके
३.५४.१५स ते दर्पं बलं वीर्यमुत्सेकं च तथाविधम्
अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे
३.५४.१६यदा विनाशो भूतानां दृश्यते कालचोदितः
तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः
३.५४.१७मां प्रधृष्य स ते कालः प्राप्तोऽयं रक्षसाधम
आत्मनो राक्षसानां च वधायान्तःपुरस्य च
३.५४.१८न शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्ड मण्डिता
द्विजातिमन्त्रसंपूता चण्डालेनावमर्दितुम्
३.५४.१९इदं शरीरं निःसंज्ञं बन्ध वा घातयस्व वा
न हि शक्ष्याम्युपक्रोशं पृथिव्यां दातुमात्मनः
३.५४.२०एवमुक्त्वा तु वैदेही क्रोद्धात्सुपरुषं वचः
रावणं मैथिली तत्र पुनर्नोवाच किंचन
३.५४.२१सीताया वचनं श्रुत्वा परुषं रोमहर्षणम्
प्रत्युवाच ततः सीतां भयसंदर्शनं वचः
३.५४.२२शृणु मैथिलि मद्वाक्यं मासान्द्वादश भामिनि
ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः
३.५४.२३इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणः
राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत्
३.५४.२४शीघ्रमेवं हि राक्षस्यो विकृता घोरदर्शनाः
दर्पमस्या विनेष्यन्तु मांसशोणितभोजनाः
३.५४.२५वचनादेव तास्तस्य विकृता घोरदर्शनाः
कृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन्
३.५४.२६स ताः प्रोवाच राजा तु रावणो घोरदर्शनः
प्रचाल्य चरणोत्कर्षैर्दारयन्निव मेदिनीम्
३.५४.२७अशोकवनिकामध्ये मैथिली नीयतामिति
तत्रेयं रक्ष्यतां गूढमुष्माभिः परिवारिता
३.५४.२८तत्रैनां तर्जनैर्घोरैः पुनः सान्त्वैश्च मैथिलीम्
आनयध्वं वशं सर्वा वन्यां गजवधूमिव
३.५४.२९इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः
अशोकवनिकां जग्मुर्मैथिलीं परिगृह्य ताम्
३.५४.३०सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम्
सर्वकालमदैश्चापि द्विजैः समुपसेविताम्
३.५४.३१सा तु शोकपरीताङ्गी मैथिली जनकात्मजा
राक्षसी वशमापन्ना व्याघ्रीणां हरिणी यथा
३.५४.३२न विन्दते तत्र तु शर्म मैथिली; विरूपनेत्राभिरतीव तर्जिता
पतिं स्मरन्ती दयितं च देवरं; विचेतनाभूद्भयशोकपीडिता