६.११५

६.११५.१श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः
हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा

६.११५.२दैवतानि च सर्वाणि चैत्यानि नगरस्य च
सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः

६.११५.३राजदारास्तथामात्याः सैन्याः सेनागणाङ्गनाः
अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम्

६.११५.४भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा
विष्टीरनेकसाहस्रीश्चोदयामास वीर्यवान्

६.११५.५समीकुरुत निम्नानि विषमाणि समानि च
स्थानानि च निरस्यन्तां नन्दिग्रामादितः परम्

६.११५.६सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा
ततोऽभ्यवकिरंस्त्वन्ये लाजैः पुष्पैश्च सर्वतः

६.११५.७समुच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमे
शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति

६.११५.८स्रग्दाममुक्तपुष्पैश्च सुगन्धैः पञ्चवर्णकैः
राजमार्गमसंबाधं किरन्तु शतशो नराः

६.११५.९मत्तैर्नागसहस्रैश्च शातकुम्भविभूषितः
निर्ययुस्त्वरया युक्ता रथैश्च सुमहारथाः

६.११५.१०ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः
कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः

६.११५.११अश्वानां खुरशब्देन रथनेमिस्वनेन च
शङ्खदुन्दुभिनादेन संचचालेव मेदिनी

६.११५.१२कृत्स्नं च नगरं तत्तु नन्दिग्राममुपागमत्
द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः

६.११५.१३माल्यमोदक हस्तैश्च मन्त्रिभिर्भरतो वृतः
शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिवन्दितः

६.११५.१४आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः
पाण्डुरं छत्रमादाय शुक्लमाल्योपशोभितम्

६.११५.१५शुक्ले च वालव्यजने राजार्हे हेमभूषिते
उपवासकृशो दीनश्चीरकृष्णाजिनाम्बरः

६.११५.१६भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः
प्रत्युद्ययौ तदा रामं महात्मा सचिवैः सह

६.११५.१७समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम्
न हि पश्यामि काकुत्स्थं राममार्यं परंतपम्

६.११५.१८अथैवमुक्ते वचने हनूमानिदमब्रवीत्
अर्थं विज्ञापयन्नेव भरतं सत्यविक्रमम्

६.११५.१९सदा फलान्कुसुमितान्वृक्षान्प्राप्य मधुस्रवान्
भरद्वाजप्रसादेन मत्तभ्रमरनादितान्

६.११५.२०तस्य चैष वरो दत्तो वासवेन परंतप
ससैन्यस्य तदातिथ्यं कृतं सर्वगुणान्वितम्

६.११५.२१निस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम्
मन्ये वानरसेना सा नदीं तरति गोमतीम्

६.११५.२२रजोवर्षं समुद्भूतं पश्य वालुकिनीं प्रति
मन्ये सालवनं रम्यं लोलयन्ति प्लवंगमाः

६.११५.२३तदेतद्दृश्यते दूराद्विमलं चन्द्रसंनिभम्
विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम्

६.११५.२४रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना
धनदस्य प्रसादेन दिव्यमेतन्मनोजवम्

६.११५.२५एतस्मिन्भ्रातरौ वीरौ वैदेह्या सह राघवौ
सुग्रीवश्च महातेजा राक्षसेन्द्रो विभीषणः

६.११५.२६ततो हर्षसमुद्भूतो निस्वनो दिवमस्पृशत्
स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तितः

६.११५.२७रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताः
ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे

६.११५.२८प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः
स्वागतेन यथार्थेन ततो राममपूजयत्

६.११५.२९मनसा ब्रह्मणा सृष्टे विमाने लक्ष्मणाग्रजः
रराज पृथुदीर्घाक्षो वज्रपाणिरिवापरः

६.११५.३०ततो विमानाग्रगतं भरतो भ्रातरं तदा
ववन्दे प्रणतो रामं मेरुस्थमिव भास्करम्

६.११५.३१आरोपितो विमानं तद्भरतः सत्यविक्रमः
राममासाद्य मुदितः पुनरेवाभ्यवादयत्

६.११५.३२तं समुत्थाप्य काकुत्स्थश्चिरस्याक्षिपथं गतम्
अङ्के भरतमारोप्य मुदितः परिषष्वजे

६.११५.३३ततो लक्ष्मणमासाद्य वैदेहीं च परंतपः
अभ्यवादयत प्रीतो भरतो नाम चाब्रवीत्

६.११५.३४सुग्रीवं कैकयी पुत्रो जाम्बवन्तं तथाङ्गदम्
मैन्दं च द्विविदं नीलमृषभं चैव सस्वजे

६.११५.३५ते कृत्वा मानुषं रूपं वानराः कामरूपिणः
कुशलं पर्यपृच्छन्त प्रहृष्टा भरतं तदा

६.११५.३६विभीषणं च भरतः सान्त्वयन्वाक्यमब्रवीत्
दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम्

६.११५.३७शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम्
सीतायाश्चरणौ पश्चाद्ववन्दे विनयान्वितः

६.११५.३८रामो मातरमासाद्य विषण्णं शोककर्शिताम्
जग्राह प्रणतः पादौ मनो मातुः प्रसादयन्

६.११५.३९अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम्
स मातॄश्च तदा सर्वाः पुरोहितमुपागमत्

६.११५.४०स्वागतं ते महाबाहो कौसल्यानन्दवर्धन
इति प्राञ्जलयः सर्वे नागरा राममब्रुवन्

६.११५.४१तन्यञ्जलिसहस्राणि प्रगृहीतानि नागरैः
आकोशानीव पद्मानि ददर्श भरताग्रजः

६.११५.४२पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम्
चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित्

६.११५.४३अब्रवीच्च तदा रामं भरतः स कृताञ्जलिः
एतत्ते रक्षितं राजन्राज्यं निर्यातितं मया

६.११५.४४अद्य जन्म कृतार्थं मे संवृत्तश्च मनोरथः
यस्त्वां पश्यामि राजानमयोध्यां पुनरागतम्

६.११५.४५अवेक्षतां भवान्कोशं कोष्ठागारं पुरं बलम्
भवतस्तेजसा सर्वं कृतं दशगुणं मया

६.११५.४६तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम्
मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः

६.११५.४७ततः प्रहर्षाद्भरतमङ्कमारोप्य राघवः
ययौ तेन विमानेन ससैन्यो भरताश्रमम्

६.११५.४८भरताश्रममासाद्य ससैन्यो राघवस्तदा
अवतीर्य विमानाग्रादवतस्थे महीतले

६.११५.४९अब्रवीच्च तदा रामस्तद्विमानमनुत्तमम्
वह वैश्रवणं देवमनुजानामि गम्यताम्

६.११५.५०ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम्
उत्तरां दिशमुद्दिश्य जगाम धनदालयम्

६.११५.५१पुरोहितस्यात्मसमस्य राघवो; बृहस्पतेः शक्र इवामराधिपः
निपीड्य पादौ पृथगासने शुभे; सहैव तेनोपविवेश वीर्यवान्